अथ शतचण्डी विधानम् ॥ शास्त्र ज्ञान।।
*॥ अथ शतचण्डी विधानम् ॥* *उक्तं च क्रोडतन्त्रे ।* यदा यदा सतां हानिरात्मनो ग्लानिरेव च । तदा कार्या शतावृत्ती रिपुघ्ना भूतिवर्धना ॥ १ ॥ दुःस्वप्न दर्शने घोरे महामारीसमुद्भवे । पुष्टिप्रदा शतावृत्तिः कार्या चायुः क्षये तथा ॥२॥ महाभये छेदयोगे दुर्भिक्षे मरणेऽपि च । कुर्यात्तत्र शतावृत्तिं देवीमाहात्म्यमुत्तमम् ॥३॥ अद्भुते च समुत्पन्ने बान्धवानां महोत्सवे । कुर्याच्चण्डीशतावृत्तिं सर्वसंपत्तिकारणम् ॥ ४ ॥ शतावृत्त्या भवेदायुः शतावृत्त्या समागमः । वश्या भवन्ति राजानः श्रियमाप्नोति संपदाम् ॥५॥ धनार्थी प्राप्नुयादर्थं पुत्रकामो लभेत्सुतम् । विद्यार्थी प्राप्नुयाद्विद्यां रोगी रोगात्प्रमुच्यते ॥६॥ चतुर्वर्गफलावाप्तिकारणं रिपुनाशनम् । चण्डी शतावृत्तिफलं नास्ति यज्ञे वरानने ॥७॥ विधिमत्र प्रवक्ष्यामि शृणुष्व वरवर्णिनि । निमन्त्रयेत पूर्वेधुर्विप्रान्विद्या समन्वितान् ॥ ८ ॥ अलोलुपानृजून् शान्तान् देव्या भक्तिसमन्वितान् । मंत्रोपतन्त्रतन्त्रज्ञान् शतावृत्तौ नियोजयेत् ॥९...