अथ शतचण्डी विधानम् ॥ शास्त्र ज्ञान।।
*॥ अथ शतचण्डी विधानम् ॥*
*उक्तं च क्रोडतन्त्रे ।*
यदा यदा सतां हानिरात्मनो ग्लानिरेव च ।
तदा कार्या शतावृत्ती रिपुघ्ना भूतिवर्धना ॥ १ ॥
दुःस्वप्न दर्शने घोरे महामारीसमुद्भवे ।
पुष्टिप्रदा शतावृत्तिः कार्या चायुः क्षये तथा ॥२॥
महाभये छेदयोगे दुर्भिक्षे मरणेऽपि च ।
कुर्यात्तत्र शतावृत्तिं देवीमाहात्म्यमुत्तमम् ॥३॥
अद्भुते च समुत्पन्ने बान्धवानां महोत्सवे ।
कुर्याच्चण्डीशतावृत्तिं सर्वसंपत्तिकारणम् ॥ ४ ॥
शतावृत्त्या भवेदायुः शतावृत्त्या समागमः ।
वश्या भवन्ति राजानः श्रियमाप्नोति संपदाम् ॥५॥
धनार्थी प्राप्नुयादर्थं पुत्रकामो लभेत्सुतम् ।
विद्यार्थी प्राप्नुयाद्विद्यां रोगी रोगात्प्रमुच्यते ॥६॥
चतुर्वर्गफलावाप्तिकारणं रिपुनाशनम् ।
चण्डी शतावृत्तिफलं नास्ति यज्ञे वरानने ॥७॥
विधिमत्र प्रवक्ष्यामि शृणुष्व वरवर्णिनि ।
निमन्त्रयेत पूर्वेधुर्विप्रान्विद्या समन्वितान् ॥ ८ ॥
अलोलुपानृजून् शान्तान् देव्या भक्तिसमन्वितान् ।
मंत्रोपतन्त्रतन्त्रज्ञान् शतावृत्तौ नियोजयेत् ॥९॥
उत्तराशास्थिते हंसे शुक्लपक्षे तथा शुभे ।
ज्ञार्केन्दुभृगुजीवेषु सुयोगे सुतिथौ तथा ॥ १० ॥
पातक्रक च घण्टादिदोषहीने स्थिरोदये ।
स्थापयेदव्रणं कुम्भमुत्तराभिमुखं स्वयम् ॥ ११ ॥
न विदध्याद्धरौ सुप्ते भूकम्पाकालवर्षणे ।
वज्रपाते महोत्पाते गुर्वादित्यादिके तथा ॥१२॥
महागुरौ विपन्ने च संवेशे कार्य वस्तुनः।
शतावृत्त्यादियागं तु न विदध्यात्कदाचन ॥१३॥
त्रिपञ्चसप्तभिर्वाऽपि नवैकादशभि स्तथा ।
अदीर्घदिवसैः क्षिप्रं विदध्याच्चण्डिकामखम् ॥१४॥
अयुग्मब्राह्मणैः कार्या शतावृत्ति सुसिद्धये ।
त्रिपञ्चसप्तनवभिर्दिनैः पक्षेण वा पुनः ॥ १५ ॥
देवीमाहात्म्यपठनं युग्मविप्र कृतं तु यत्।
निष्फलं च भवेत्सर्वं भूतिनाशः प्रजायते ॥१६॥
अष्टमी नवमी वाऽपि यदि स्याद्वा चतुर्दशी ।
शतावृत्तिर्नवावृत्तिः पक्षावृत्तिः क्रमेण च ॥१७॥
शताश्वमेघगोमेघ वाजपेयफल प्रदा ।
अतः किं बहुनोक्तेन चण्डीपाठफलं प्रिये ॥ १८ ॥
प्रत्येकावर्तनं देवि हयमेधेन संमितम् ।
त्रिरावृत्त्या लभेत्कामान्पञ्चावृत्या रिपूञ्जयेत् ॥१९॥
*अथ मन्त्रमहोदधौ शतचण्डीविधानं।*
शतचण्डीविधानं तु प्रवक्ष्ये प्रीतये नृणाम् ।
नृपोपद्रव आपन्ने दुर्भिक्षे भूमिकम्पने ॥ २० ॥
*॥ अथ प्रयोगः ॥*
शास्त्रोक्तावधिना शंकरालये भवान्यालये वा वा मण्डपं वेदिमध्यं निर्माय प्रतीच्यां कुण्डं मध्ये कृत्वा कृतनित्यक्रियोऽमुककामः शतचण्डीविधानमहं करिष्य इति संकल्पं विधाय। मातृस्थापननान्दीश्राद्धे विधाय स्वस्तिवाचनं कृत्वा ।
अतिवृष्ट्यामनावृष्टौ परचक्रभये क्षये।
सर्वे विघ्ना विनश्यन्ति शतचण्डीविद्यौ कृते॥ २१ ॥
रोगाणां वैरिणां नाशो धनपुत्रसमृद्धयः।
शंकरस्य भवान्या वा प्रासादनिकटे शुभम् ॥ २२ ॥
मण्डपद्वारवेद्याढ्य कुर्यात्सध्वजतोरणम् ।
तत्र कुण्डं प्रकुर्वीत प्रतीच्यां मध्यतोऽपि वा ॥ २३ ॥
स्नात्वा नित्यकृतिं कृत्वा वृणुयाद्दश वाडवान् ।
जितेन्द्रयान्सदाचारान्कुलीनान्सत्यवादिनः ॥२४॥
व्युत्पन्नांश्चण्डिका पाठरताँल्लज्जादयावतः ।
मधुपर्कविधानेन वस्त्रस्वर्णादिदानतः ॥ २५ ॥
जपार्थमासनं मालां दद्यात्तेभ्योऽपि भोजनम् ।
ते हविष्यान्न मश्नन्तो मन्त्रार्थगतमानसाः ॥ २६ ॥
भूमौ शयानाः प्रत्येकं जपेयुश्चण्डिकास्तवम् ।
मार्कण्डेयपुराणोक्तं दशकृत्व: सुचेतसः ॥ २७ ॥
*॥ अथ कुमारिका पूजने मन्त्रादिकं कुमारीपूजनाध्याये द्रष्टव्यम् ॥*
नवार्णं चण्डिकामन्त्रं जपेयुश्चायुक्तं पृथक् ।
यजमानः पूजयेच्च कन्यानां दशकं शुभम् ॥ २८ ॥
वेद्यां विरचिते रम्ये सर्वतोभद्रमण्डले।
घटं संस्थाप्य विधिवत्तत्रावाह्यर्चयेच्छिवम् ॥ २९ ॥
तदग्रे कन्यकश्चापि पूजयेद्ब्राह्मणानपि ।
उपचारैस्तु विविधैः विविधैः पूर्वोक्तावरणान्यपि ॥३०॥
एवं चतुर्दिनं कृत्वा पञ्चमे होममाचरेत् ।
पायसान्नैस्त्रिमध्वक्तैर्द्राक्षा रम्भाफलैरपि ॥३१॥
मातुलिङ्गै रिक्षुखण्डैर्नारिकेलैः पुरैस्तिलैः ।
जातीफलैराम्रफलै र्वन्यैर्मधुर वस्तुभिः ॥३२॥
सप्तशत्या दशावृत्त्या प्रतिश्लोके हुतं चरेत् ।
अयुतं च नवार्णेन स्थापिताग्नौ विधानतः ॥ ३३ ॥
कृत्वाऽऽवरण देवानां होमं तन्नाममन्त्रतः ।
कृत्वा पूर्णाहुतिं सम्यग्देवमग्नि विसृज्य च ॥३४॥
अभिषिञ्चेच्च यष्टार विप्रौघः कलशौदकैः ।
निष्कं सुवर्णमथवा प्रत्येकं दक्षिणां दिशेत् ॥ ३५ ॥
भोजयेच्च शतं विप्रान्भक्ष्यभोज्यैः पृथग्विधैः ।
तेभ्योऽपि दक्षिणां दत्त्वा गृह्णीयादाशिषस्ततः ॥३६॥
एवं कृते जगद्वश्यं सर्वे नश्यन्त्युपद्रवाः ।
राज्यं धनं यशः पुत्रानिष्टमन्यल्लभेत सः ॥३७॥
*विविध संख्यक चण्डी पाठ फल*
चण्डीपाठफलं देवि ! शृणुष्व गदतो मम ।
एकावृत्त्यादिपाठानां यथावत् कथयामि ते ।।
सङ्कल्प्य पूर्ब्बं सम्पूज्य न्यस्याङ्गेषु मनून् सकृत् ।
पाठाद्बलिप्रदानाद्धि सिद्धिमाप्नोति मानवः ।।
उपसर्गस्य शान्त्यर्थं त्रिरावृत्तं पठेन्नरः ।
ग्रहोपशान्त्यै कर्त्तव्यं पञ्चावृत्तं वरानने ! ।।
महाभये समुत्पन्ने सप्तावृत्तं समुन्नयेत् ।
नवावृत्त्या भवेच्छान्तिर्वाजपेयफलं लभेत्।।
राजवश्याय भूत्यै च रुद्रावृत्तमुदीरयेत् ।
अर्कावृत्त्या काम्यसिद्धिर्वैरहानिश्च जायते ।।
मन्वावृत्त्या रिपुर्व्वश्यस्तथा स्त्रीवश्यतामियात् ।
सौख्यं पञ्चदशावृत्त्या श्रियमाप्नोति मानवः ।।
कलावृत्त्या पुत्त्रपौत्त्रधनधान्यागमं विदुः ।
राज्ञां भीतिविमोक्षाय वैरस्योच्चाटनाय च ।।
कुर्य्यात् सप्तदशावृत्तं तथाष्टादशकं प्रिये ! ।
महाव्रणविमोक्षाय त्रिंशावृत्तिं पठेत् सुधीः ।।
पञ्चविंशावर्त्तनात्तु भवेद्बन्धविमोक्षणम् ।
सङ्कटे समनुप्राप्ते दुश्चिकित्सामये तथा ।।
जातिध्वंसे कुलोच्छेदे आयुषो नाश आगते ।
वैरिवृद्धौ व्याधिवृद्धौ धननाशे तथा क्षये ।
तथैव त्रिविधोत्पाते तथा चैवातिपातके ।
कुर्य्याद्यत्नात् शतावृत्तिं ततः सम्पद्यते शुभम् ।।
श्रियोवृद्धिः शतावृत्ताद्राज्यवृद्धिस्तथापरे ।
मनसा चिन्तितं देवि ! सिद्धेदष्टोत्तराच्छतात् ।।
शताश्वमेधयज्ञानां फलमाप्नोति सुव्रते ! । सहस्रावर्त्तनाल्लक्ष्मीरावृणोति स्वयं स्थिरा ।।
भुक्त्वा मनोरथान् कामान् नरो मोक्षमवाप्नुयात् ।
यथाश्वमेधः क्रतुराट् देवानाञ्च यथा हरिः ।।
स्तवानामपि सर्ष्वेषां तथा सप्तशतीस्तवः।।
अथवा बहुनोक्तेन किमेतेन वरानने ! ।
चण्ड्याः शतावृत्तपाठात् सर्व्वाः सिध्यन्ति सिद्धयः।।
(तिथ्यादितत्त्वम्)
Comments