Posts

Showing posts with the label yagna karma

अथ शतचण्डी विधानम् ॥ शास्त्र ज्ञान।।

Image
*॥ अथ शतचण्डी विधानम् ॥*   *उक्तं च क्रोडतन्त्रे ।*  यदा यदा सतां हानिरात्मनो ग्लानिरेव च ।  तदा कार्या शतावृत्ती रिपुघ्ना भूतिवर्धना ॥ १ ॥  दुःस्वप्न दर्शने घोरे महामारीसमुद्भवे ।  पुष्टिप्रदा शतावृत्तिः कार्या चायुः क्षये तथा ॥२॥  महाभये छेदयोगे दुर्भिक्षे मरणेऽपि च ।  कुर्यात्तत्र शतावृत्तिं देवीमाहात्म्यमुत्तमम् ॥३॥  अद्भुते च समुत्पन्ने बान्धवानां महोत्सवे ।  कुर्याच्चण्डीशतावृत्तिं सर्वसंपत्तिकारणम् ॥ ४ ॥  शतावृत्त्या भवेदायुः शतावृत्त्या समागमः ।  वश्या भवन्ति राजानः श्रियमाप्नोति संपदाम् ॥५॥  धनार्थी प्राप्नुयादर्थं पुत्रकामो लभेत्सुतम् ।  विद्यार्थी प्राप्नुयाद्विद्यां रोगी रोगात्प्रमुच्यते ॥६॥  चतुर्वर्गफलावाप्तिकारणं रिपुनाशनम् ।  चण्डी शतावृत्तिफलं नास्ति यज्ञे वरानने ॥७॥  विधिमत्र प्रवक्ष्यामि शृणुष्व वरवर्णिनि ।  निमन्त्रयेत पूर्वेधुर्विप्रान्विद्या समन्वितान् ॥ ८ ॥  अलोलुपानृजून् शान्तान् देव्या भक्तिसमन्वितान् ।  मंत्रोपतन्त्रतन्त्रज्ञान् शतावृत्तौ नियोजयेत् ॥९...