gurudev tatva
Guru deva
II ॐ परम तत्वाय नारायणाय गुरुभ्यो नमः II
" प "
पकार पुण्यं परमार्थ चिन्त्यं, परोपकारं परमं पवित्रं ।
परम हंस रूपं प्रणवं परेशं, प्रणम्यं प्रणम्यं निखिलं त्वमेवं ।। १ ।।
" र "
रम्य सुवाणी दिव्यंच नेत्र, अग्निं त्रिरुपं भवरोग वैद्यं ।
लक्ष्मी च लाभं भवति प्रदोषे, श्री राजमान्य निखिलं शरण्यम् ।। २ ।।
" म "
महामानदं च महामोह निभं , महोच्चं पदं वै प्रदानं सदैवं ।
महनिय रूपं मधुराकुतिं तं, महामण्डलं तं निखिलं नमामि ।। ३ ।।
" त "
तत्व स्वरूपं तपः पुतदानं , तारुण्य युक्ति शक्तिं ददाति ।
तापत्रयं दुरयति तत्त्वगर्भः , तमेव तत्पुरुषमहं प्रणम्यं ।। ४ ।।
" त्वा "
विभाति विश्वेश्वर विश्वमूर्ति , ददाति विविधोत्सव सत्व रूपं ।
प्राणालयं योग क्रिया निदानं , विस्वात्मकम तं निखिलं विधेयम् ।। ५ ।।
" य "
यशस्करं योग क्षेम प्रदं वै , योगश्रियं शुभ्रमनन्तवीर्यं ।
यज्ञान्त कार्य निरतं सुखं च , योगेश्वरं तं निखिलं वदेन्यम् ।। ६ ।।
" ना "
निरामयं निर्मल भात भाजनं , नारायणस्य पदवीं सामुदारभावं ।
नवं नवं नित्य नवोदितं तं , नमामि निखिलं नवकल्प रूपम् ।। ७ ।।
" रा "
रासं महापूरित रामणीयं , महालयं योगिजनानु मोदितं ।
श्री कृष्ण गोपीजन वल्लभं च , रसं रसज्ञं निखिलं वरेण्यम् ।। ८ ।।
" य "
यां यां विधेयां मायार्थ रूपां , ज्ञात्वा पुनर्मुच्यति शिष्य वर्गः ।
सर्वार्थ सिद्धिदं प्रददाति शुभ्रां , योगेन गम्यं निखिलं प्रणम्यम् ।। ९ ।।
" णा "
निरंजनं निर्गुण नित्य रूपं , अणोरणीयं महतो महन्तं ।
ब्रह्मा स्वरूपं विदितार्थ नित्यं , नारायणं च निखिलं त्वमेवम् ।। १० ।।
" य "
यज्ञ स्वरूपं यजमान मूर्ति , यज्ञेश्वरं यज्ञ विधि प्रदानं ।
ज्ञानाग्नि हूतं कर्मादि जालं , याजुष्यकं तं निखिलं नमामि ।। ११ ।।
" गु "
गुत्वं गुरुत्वं गत मोह रूपं , गुह्याति गुह्य गोप्तृत्व ज्ञानं ।
गोक्षीर धवलं गूढ़ प्रभावं , गेयं च निखिलं गुण मन्दिरं तम् ।। १२ ।।
" रु "
रुद्रावतारं शिवभावगम्यं , योगाधिरुढिं ब्रह्माण्ड सिद्धिं ।
प्रकृतिं वसित्वं स्नेहालयं च , प्रसाद चितं निखिलं तु ध्येयम् ।। १३ ।।
" भ्यों "
योगाग्निना दग्ध समस्त पापं , शुभा शुभं कर्म विशाल जालं ।
शिवा शिवं शक्ति मयं शुभं च , योगेश्वरं च निखिलं प्रणम्यं ।। १४ ।।
" न "
नित्यं नवं नित्य विमुक्त चितं , निरंजनं च नरचित मोदं ।
उर्जस्वलं निर्विकारं नरेशं , निरत्रपं वै निखिलं प्रणम्यं ।। १५ ।।
" म "
मातु स्वरूपं ममतामयं च , मृत्युंजयं मानप्रदं महेशं ।
सन्मंगलं शोक हरं विभुं तं , नारायणमहं निखिलं प्रणम्यं ।। १६ ।।
Comments