Saturday, 29 December 2018

।। श्री सूर्य साधना सूर्यमण्डलाष्टकम् ।।

अथ सूर्यमण्डलाष्टकम् ।


नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूती स्थितिनाशहेतवे । 

त्रयीमयाय त्रिगुणात्मधारिणे विरञ्चि नारायण शङ्करात्मन् ॥ १॥


यन्मण्डलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरूपम् । 

दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ २॥


यन्मण्डलं देव गणैः सुपूजितं विप्रैः स्तुतं भावनमुक्ति कोविदम् । 

तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ ३॥


यन्मण्डलं ज्ञानघनं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपम् । 

समस्त तेजोमय दिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ ४॥


यन्मण्डलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् । 

यत्सर्व पापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ५॥


यन्मण्डलं व्याधिविनाशदक्षं यदृग्यजुः सामसु सम्प्रगीतम् । 

प्रकाशितं येन भूर्भुवः स्वः पुनातु मां तत्सवितुर्वरेण्यम् ॥ ६॥


यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारण सिद्धसङ्घाः । 

यद्योगिनो योगजुषां च सङ्घाः पुनातु मां तत्सवितुर्वरेण्यम् ॥ ७॥


यन्मण्डलं सर्वजनेषु पूजितं ज्योतिश्चकुर्यादिह मर्त्यलोके । 

यत्कालकल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ८॥


यन्मण्डलं विश्वसृजं प्रसीदमुत्पत्तिरक्षा प्रलयप्रगल्भम् । 

यस्मिञ्जगत्संहरतेऽखिलं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ९॥


यन्मण्डलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्धतत्त्वम् । 

सूक्ष्मान्तरैर्योगपथानुगम्ये पुनातु मां तत्सवितुर्वरेण्यम् ॥ १०॥


यन्मण्डलं वेदविदो विदन्ति गायन्ति तच्चारणसिद्ध सङ्घाः । 

यन्मण्डलं वेदविदो स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यम् ॥ ११॥


यन्मण्डलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यम् । 

तत्सर्ववेदं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १२॥


इति सूर्यमण्डलाष्टकं सम्पूर्णम् ।


सुचना 📵यह लेख पौराणिक ग्रंथों अथवा मान्यताओं पर आधारित है अत: इसमें वर्णित सामग्री के वैज्ञानिक प्रमाण होने का आश्वासन नहीं दिया जा सकता। विस्तार में आप कार्यालय पर संपर्क करें।

Comments

Popular posts from this blog

આનંદ નો ગરબો