Posts

Showing posts with the label mataji

જય અન્નપૂર્ણા..

*🌿अन्नपूर्णा जयंती 2020🎉श्रीअन्नपूर्णाष्टोत्तर शतनामस्तोत्रम्* 🌿 *॥ श्रीगणेशाय नमः ॥*  *॥ श्रीअन्नपूर्णा विश्वनाथाभ्यां नमः ॥* *अस्य श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रमन्त्रस्य भगवान् श्रीब्रह्मा ऋषिः । अनुष्टुप्छन्दः । श्रीअन्नपूर्णेश्वरी देवता । स्वधा बीजम् । स्वाहा शक्तिः । ॐ कीलकम् । मम सर्वाभीष्टप्रसादसिद्धयर्थे पाठे विनियोगः ।* ॐ अन्नपूर्णा शिवा देवी भीमा पुष्टिस्सरस्वती । सर्वज्ञा पार्वती दुर्गा शर्वाणी शिववल्लभा ॥ १॥  वेदवेद्या महाविद्या विद्यादात्री विशारदा ।  कुमारी त्रिपुरा बाला लक्ष्मीश्श्रीर्भयहारिणी ॥ २॥  भवानी विष्णुजननी ब्रह्मादिजननी तथा ।  गणेशजननी शक्तिः कुमारजननी शुभा ॥ ३॥  भोगप्रदा भगवती भत्ताभीष्टप्रदायिनी ।  भवरोगहरा भव्या शुभ्रा परममङ्गला ॥ ४॥  भवान्नी चञ्चला गौरी चारुचन्द्रकलाधरा ।  विशालाक्षी विश्वमाता विश्ववन्द्या विलासिनी ॥ ५॥  आर्या कल्याणनिलया रुद्राणी कमलासना ।  शुभप्रदा शुभावर्ता वृत्तपीनपयोधरा ॥ ६॥  अम्बा संहारमथनी मृडानी सर्वमङ्गला ।  विष्णुसंसेविता सिद्धा ब्रह्माणी सुरसेविता ॥ ७॥  ...