Posts

Showing posts with the label ganeshji

।। श्री सिद्धिविनायक स्तोत्रम ।। शास्त्री जी भावनगर।।

Image
*।। श्री सिद्धिविनायकस्तोत्रम् ।।* 〰️〰️🌼〰️🌼〰️🌼〰️〰️ जयोऽस्तु ते गणपते देहि मे विपुलां मतिम् । स्तवनम् ते सदा कर्तुं स्फूर्ति यच्छममानिशम् ॥ १॥ प्रभुं मङ्गलमूर्तिं त्वां चन्द्रेन्द्रावपि ध्यायतः । यजतस्त्वां विष्णुशिवौ ध्यायतश्चाव्ययं सदा ॥ २॥ विनायकं च प्राहुस्त्वां गजास्यं शुभदायकम् । त्वन्नाम्ना विलयं यान्ति दोषाः कलिमलान्तक ॥ ३॥ त्वत्पदाब्जाङ्कितश्चाहं नमामि चरणौ तव । देवेशस्त्वं चैकदन्तो मद्विज्ञप्तिं शृणु प्रभो ॥ ४॥ कुरु त्वं मयि वात्सल्यं रक्ष मां सकलानिव । विघ्नेभ्यो रक्ष मां नित्यं कुरु मे चाखिलाः क्रियाः ॥ ५॥ गौरिसुतस्त्वं गणेशः शॄणु विज्ञापनं मम । त्वत्पादयोरनन्यार्थी याचे सर्वार्थ रक्षणम् ॥ ६॥ त्वमेव माता च पिता देवस्त्वं च ममाव्ययः । अनाथनाथस्त्वं देहि विभो मे वाञ्छितं फलम् ॥ ७॥ लम्बोदरस्वम् गजास्यो विभुः सिद्धिविनायकः । हेरम्बः शिवपुत्रस्त्वं विघ्नेशोऽनाथबान्धवः ॥ ८॥ नागाननो भक्तपालो वरदस्त्वं दयां कुरु । सिन्दूरवर्णः परशुहस्तस्त्वं विघ्ननाशकः ॥ ९॥ विश्वास्यं मङ्गलाधीशं विघ्नेशं परशूधरम् । दुरितारिं दीनबन्धूं सर्वेशं त्वां जना जगुः ॥ १०॥ नमामि विघ्नहर्तारं वन्दे श्रीप्रम...